०१४

सर्वाष् टीकाः ...{Loading}...

०१ येन वेहद् बभूविथ

विश्वास-प्रस्तुतिः ...{Loading}...

येन वेहद् बभूविथ
नाशयामसि तद् वयम् ।
इदं तद् अन्यत्र त्वद्
अप दूरे नि दध्मसि ॥

०२ आ ते गर्भो

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते गर्भो योनिम् एतु
पुमान् वाण इवेषुधिम् ।
आ वीरो ऽत्र जायतां
पुत्रस् ते दशमास्यः ॥

०३ पुमांसं पुत्रं जनय

विश्वास-प्रस्तुतिः ...{Loading}...

पुमांसं पुत्रं जनय
तं पुमान् अनु जायताम् ।
भवासि पुत्राणां माता
जातानां जनयासि च ॥

०४ यानि भद्राणि बीजान्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यानि भद्राणि बीजान्य्
ऋषभा जनयन्ति ।
तैस् त्वं पुत्रं विन्दस्व
सा प्रसूर् धेनुका भव ॥

०५ कृणोमि ते प्रजापत्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

कृणोमि ते प्रजापत्यम्
आ गर्भो योनिम् एतु ते ।
विन्दस्व पुत्रं नारि
यस् तुभ्यं शम् असच्
छम् उ तस्मै त्वं भव ॥ (Bhatt. bhavā)

०६ यासां पिता पर्जन्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यासां पिता पर्जन्यो
भूमिर् माता बभूव ।
तास् त्वा पुत्रविद्याय
देवीः प्रावन्त्व् ओषधीः ॥

०७ यस् ते योनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते योनिम् उदिङ्गयाद्
ऋषभो रेतसा सह ।
स त आ सिञ्चतु प्रजां
दीर्घायुं शतशारदाम् ॥