०१३

सर्वाष् टीकाः ...{Loading}...

०१ आयम् अगन् पर्णमणिर्

विश्वास-प्रस्तुतिः ...{Loading}...

आयम् अगन् पर्णमणिर्
बली बलेन प्रमृणन् सपत्नान् ।
ओजो देवानां पय ओषधीनां
मयि राष्ट्रं जिन्वत्व् अप्रयुच्छन् ॥

०२ मयि राष्ट्रं पर्णमणे

विश्वास-प्रस्तुतिः ...{Loading}...

मयि राष्ट्रं पर्णमणे
मयि धारया श्रियम् ।
अहं राष्ट्रस्याभीवर्गे
युजा भूयासम् उत्तरः ॥

०३ यं निदधुर् वनस्पतौ

विश्वास-प्रस्तुतिः ...{Loading}...

यं निदधुर् वनस्पतौ
वाजं देवाः प्रियं निधिम् ।
तं म इन्द्रः सहायुषा
मणिं दधातु भर्तवे ॥

०४ सोमस्य पर्णः सह

विश्वास-प्रस्तुतिः ...{Loading}...

सोमस्य पर्णः सह उग्रम् आगन्न्
इन्द्रेण दत्तो वरुणेन सख्या ।
तम् अहं बिभर्मि बहु रोचमानो
दीर्घायुत्वाय शतशारदाय ॥

०५ आ मा रुक्षत्

विश्वास-प्रस्तुतिः ...{Loading}...

आ मा रुक्षत् पर्णमणिर्
मह्या अरिष्टतातये ।
यथाहम् उत्तरो ऽसानि
मानुष्या अधि सम्पदः ॥

०६ पुनर् मैत्व् इन्द्रियम्

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् मैत्व् इन्द्रियं
पुनर् आत्मा द्रविणं ब्राह्मणं च ।
पुनर् अग्नयो धिष्ण्यासो
यथास्थाम कल्पयन्ताम् इहैव ॥

०७ ये तक्षाणो रथकाराः

विश्वास-प्रस्तुतिः ...{Loading}...

ये तक्षाणो रथकाराः
कर्मारा ये मनीषिणः ।
सर्वांस् तान् पर्ण रन्धय-
-उपस्तिं कृणु मे जनम् ॥

०८ उपस्तिर् अस्तु वैश्य

विश्वास-प्रस्तुतिः ...{Loading}...

उपस्तिर् अस्तु वैश्य
उत शूद्र उतार्यः ।
सर्वांस् तान् पर्ण रन्धय-
-उपस्तिं कृणु मे जनम् ॥