सर्वाष् टीकाः ...{Loading}...
०१ यो अप्स्व् अन्तर्
विश्वास-प्रस्तुतिः ...{Loading}...
यो अप्स्व् अन्तर् यो वृत्रे
अन्तर् यः पुरुषे यो अश्मनि ।
य आविवेशौषधीर् यो वनस्पतींस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो अप्स्व् अन्तर् यो वृत्रे
अन्तर् यः पुरुषे यो अश्मनि ।
य आविवेशौषधीर् यो वनस्पतींस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यः सोमे अन्तर्
विश्वास-प्रस्तुतिः ...{Loading}...
यः सोमे अन्तर् य उ गोष्व् अन्तर्
य आविष्टो वयसि यो मृगेषु ।
य आविवेश द्विपदो यश् चतुष्पदस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः सोमे अन्तर् य उ गोष्व् अन्तर्
य आविष्टो वयसि यो मृगेषु ।
य आविवेश द्विपदो यश् चतुष्पदस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ य इन्द्रेण सरथम्
विश्वास-प्रस्तुतिः ...{Loading}...
य इन्द्रेण सरथं संबभूव
वैश्वानर उत विश्वदाव्यः ।
यं जोहवीमि पृतनासुषासहिं
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
य इन्द्रेण सरथं संबभूव
वैश्वानर उत विश्वदाव्यः ।
यं जोहवीमि पृतनासुषासहिं
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यो देवो विश्वाद्
विश्वास-प्रस्तुतिः ...{Loading}...
यो देवो विश्वाद् यम् उ कामम् आहुर्
यं दातारं प्रतिगृह्णन्तम् आहुः ।
यो धीरः शक्रः परिभूर् अदाभ्यस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो देवो विश्वाद् यम् उ कामम् आहुर्
यं दातारं प्रतिगृह्णन्तम् आहुः ।
यो धीरः शक्रः परिभूर् अदाभ्यस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यं त्वा होतारम्
विश्वास-प्रस्तुतिः ...{Loading}...
यं त्वा होतारं मनसाभिसंविदुस्
त्रयोदश भौवनाः पञ्च मानवाः ।
वर्चोधसे यशसे सूनृतावते
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं त्वा होतारं मनसाभिसंविदुस्
त्रयोदश भौवनाः पञ्च मानवाः ।
वर्चोधसे यशसे सूनृतावते
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०६ उक्षान्नाय वशान्नाय सोमपृष्ठाय
विश्वास-प्रस्तुतिः ...{Loading}...
उक्षान्नाय वशान्नाय
सोमपृष्ठाय वेधसे ।
वैश्वानरस्य ज्येष्ठेभ्यस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उक्षान्नाय वशान्नाय
सोमपृष्ठाय वेधसे ।
वैश्वानरस्य ज्येष्ठेभ्यस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ दिवं पृथिवीम् अन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
दिवं पृथिवीम् अन्तरिक्षं
ये विद्युतम् अनुसंचरन्ति ।
ये दिक्ष्व् अन्तर् य उ वाते अन्तस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवं पृथिवीम् अन्तरिक्षं
ये विद्युतम् अनुसंचरन्ति ।
ये दिक्ष्व् अन्तर् य उ वाते अन्तस्
तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०८ बृहस्पतिं वरुणं मित्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिं वरुणं मित्रम् अग्निं
हिरण्यपाणिं सवितारम् इन्द्रम् ।
विश्वान् देवान् अङ्गिरसो हवामह (Bhatt. -mahe with underlining)
इमं क्रव्यादं शमयन्त्व् अग्निम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिं वरुणं मित्रम् अग्निं
हिरण्यपाणिं सवितारम् इन्द्रम् ।
विश्वान् देवान् अङ्गिरसो हवामह (Bhatt. -mahe with underlining)
इमं क्रव्यादं शमयन्त्व् अग्निम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ शान्तो अग्निः क्रव्याद्
विश्वास-प्रस्तुतिः ...{Loading}...
शान्तो अग्निः क्रव्याद्
अथो पुरुषरेषणः ।
अथो यो विश्वदाव्यस्
तं क्रव्यादम् अशीशमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शान्तो अग्निः क्रव्याद्
अथो पुरुषरेषणः ।
अथो यो विश्वदाव्यस्
तं क्रव्यादम् अशीशमम् ॥