०११

सर्वाष् टीकाः ...{Loading}...

०१ ये स्थास्यां प्राच्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्थास्यां प्राच्यां दिशि हेतयो नाम देवास्
तेषां वो अग्निर् इषवः ।
ते नो मृडत ते नो ऽधि ब्रूत
तेभ्यो नमस् तेभ्यः स्वाहा ॥

०२ ये स्थास्यां दक्षिणायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्थास्यां दक्षिणायां दिश्य् अविष्यवो नाम देवास्
तेषं व आप इषवः ।
ते नो मृडत ते नो ऽधि ब्रूत
तेभ्यो नमस् तेभ्यः स्वाहा ॥

०३ ये स्थास्यां प्रतीच्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्थास्यां प्रतीच्यां दिशि विराजो नाम देवास्
तेषं वः काम इषवः ।
ते नो मृडत ते नो ऽधि ब्रूत
तेभ्यो नमस् तेभ्यः स्वाहा ॥

०४ ये स्थास्याम् उदीच्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्थास्याम् उदीच्यां दिशि प्रविध्यन्तो नाम देवास्
तेषं वो वात इषवः ।
ते नो मृडत ते नो ऽधि ब्रूत
तेभ्यो नमस् तेभ्यः स्वाहा ॥

०५ ये स्थास्यां ध्रुवायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्थास्यां ध्रुवायां दिशि विलिम्पा नाम देवास्
तेषं वो ऽन्नम् इषवः ।
ते नो मृडत ते नो ऽधि ब्रूत
तेभ्यो नमस् तेभ्यः स्वाहा ॥

०६ ये स्थास्याम् ऊर्ध्वायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्थास्याम् ऊर्ध्वायां दिश्य् अविष्यन्तो नाम देवास्
तेषं वो वर्षम् इषवः ।
ते नो मृडत ते नो ऽधि ब्रूत
तेभ्यो नमस् तेभ्यः स्वाहा ॥