०१०

सर्वाष् टीकाः ...{Loading}...

०१ मृत्युर् एको यम

विश्वास-प्रस्तुतिः ...{Loading}...

मृत्युर् एको यम एकः
शर्व एकः शरुर् भवः ।
ते नः कृण्वन्तु भेषजं
देवसेनाभ्यस् परि ॥

०२ पुनर् नो यमः

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् नो यमः पितृभिर् ददातु
पुनर् मित्रावरुणा वातो अग्निः ।
अघमारो अघशंसः पुनर् दात्
पुनर् नो देवी निरृतिर् ददातु ॥

०३ या देवैः प्रहितेषुः

विश्वास-प्रस्तुतिः ...{Loading}...

या देवैः प्रहितेषुः पतात्
तपसे वा महसे वावसृष्टा ।
सोमस् त्वाम् अस्मद् यावयतु विद्वान्
पितरो वा देवहुता नृचक्षसः ॥

०४ सहस्राक्षो अमर्त्यः पुरुरूप

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्राक्षो अमर्त्यः
पुरुरूप इहावतु ।
सख्ये त उग्र मा रिषं
सहगुः सहपूरुषः ॥

०५ यस् ते मन्युः

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते मन्युः सहस्राक्ष
विषेण परिषिच्यते ।
तेन त्वम् अस्मभ्यं मृड
शिवो नः शम्भुर् आ चर ॥

०६ मा ते मयौ

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते मयौ सहस्राक्ष
भामे भून् मामकं जगत् ।
यो नो द्वेष्टि तं गच्छ
यं द्विष्मस् तं जहि ॥