००९

सर्वाष् टीकाः ...{Loading}...

०१ अम्बाः सुमुखाः सृजत

विश्वास-प्रस्तुतिः ...{Loading}...

अम्बाः सुमुखाः सृजत
पद्वत् सृजत सत्यज्ञेयम् ।
सृजाम्य् अहं दूतान्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥

०२ इन्द्रम् अहम् इह

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रम् अहम् इह हुवे
सोमपाम् उभयाविनम्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥

०३ वरुणम् अहम् इह

विश्वास-प्रस्तुतिः ...{Loading}...

वरुणम् अहम् इह हुव
उग्रं राजन्यैः सह-
-अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥

०४ अदितिम् अहम् इह

विश्वास-प्रस्तुतिः ...{Loading}...

अदितिम् अहम् इह हुवे
सूरपुत्रां कनीनिकाम्
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥

०५ बृहस्पतिम् अहम् इह

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिम् अहम् इह हुवे
यो देवानां पुरोहितो
ऽस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥

०६ आणाश्चाणाश् चण्डामर्का अस्मै

विश्वास-प्रस्तुतिः ...{Loading}...

आणाश्चाणाश् चण्डामर्का
अस्मै विषाय हन्तवे ।
वार् उग्रम् अरसं विषम्
आहेयम् अरसं विषं निर्विषम् ॥

०७ नवानां नवतीनां विषस्य

विश्वास-प्रस्तुतिः ...{Loading}...

नवानां नवतीनां
विषस्य रोपुषीणाम् ।
सर्वासाम् अग्रभं नाम
वीतापेतारसं विषम् ॥