००८

सर्वाष् टीकाः ...{Loading}...

०१ यमस्य लोकाद् अध्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यमस्य लोकाद् अध्य् आ बभूविथ
प्रमदा मर्तान् प्र युनक्षुधीरः ।
एकाकिना सरथं यासि विद्वान्
स्वप्न मिमानो असुरस्य योनौ ॥

०२ बम्बस् त्वाग्रे विश्ववयापश्यत्

विश्वास-प्रस्तुतिः ...{Loading}...

बम्बस् त्वाग्रे विश्ववयापश्यत्
पुरा रात्र्या जनितोर् एके अह्नि ।
ततः स्वप्नेदम् अध्य् आ बभूविथ
विष्वङ्वरूपम् अपगूहमानः ॥

०३ बृहन् ग्रावासुरेभ्यो ऽधि

विश्वास-प्रस्तुतिः ...{Loading}...

बृहन् ग्रावासुरेभ्यो ऽधि देवान्
उपाववर्त महिमानम् इच्छन् ।
तस्मै स्वप्नाय दधुर् आधिपत्यं
त्रयस्त्रिंशासः स्वर् आनशानाः ॥

०४ नैतां विदुः पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

नैतां विदुः पितरो नोत देवा
यैषा जल्पिश् चरत्य् अन्तरेदम् ।
त्रिते स्वप्नम् अदधुर् आप्त्ये नर
आदित्यासो वरुणेनानुशिष्टाः ॥

०५ व्य् अस्य क्रूरम्

विश्वास-प्रस्तुतिः ...{Loading}...

व्य् अस्य क्रूरम् अभि यन्तु दुष्कृतो
ऽस्वप्नेन सुकृतः पुण्यम् आयुः ।
स्वर् मदसि परमेण बन्धुना
तप्यमानस्य मनसो ऽधि जज्ञिषे ॥

०६ विद्म ते सर्वाः

विश्वास-प्रस्तुतिः ...{Loading}...

विद्म ते सर्वाः परिजाः पुरस्ताद्
विद्म स्वप्न यो अधिपा इहो ते ।
यशस्विनो नो यशसेह पाह्य्
आराद् द्विषेभिर् अप याहि दूरम् ॥