००७

सर्वाष् टीकाः ...{Loading}...

०१ एकशतं विष्कन्धानि विष्ठिता

विश्वास-प्रस्तुतिः ...{Loading}...

एकशतं विष्कन्धानि
विष्ठिता पृथिवीम् अनु ।
तेषां तु सर्वेषाम् इदम्
अस्तु विष्कन्धदूषणम् ॥

०२ कर्षफस्य विशफस्य द्यौष्पिता

विश्वास-प्रस्तुतिः ...{Loading}...

कर्षफस्य विशफस्य
द्यौष्पिता पृथिवी माता ।
यथाभिचक्र देवास्
तथापि कृणुता पुनः ॥

०३ अश्लेष्माणो अधारयन् तथा

विश्वास-प्रस्तुतिः ...{Loading}...

अश्लेष्माणो अधारयन्
तथा तन् मनुना कृतम् ।
कृणोमि वध्रि विष्कन्धं
मुष्काबर्हो गवाम् इव ॥

०४ सूत्रे पिशङ्गे खृगलम्

विश्वास-प्रस्तुतिः ...{Loading}...

सूत्रे पिशङ्गे खृगलं
यद् आबध्नन्ति वेधसः ।
श्रवस्यं शुष्मं काबवं
वध्रिं कृण्वन्तु बन्धुरः ॥

०५ येना श्रवस्यो चरथ

विश्वास-प्रस्तुतिः ...{Loading}...

येना श्रवस्यो चरथ
देवा इवासुरमायया ।
शुनां कपिर् इव दूषणो
बन्धुरा काबवस्य च ॥

०६ दुष्ट्यै हि त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

दुष्ट्यै हि त्वा भन्त्स्यामि
दूषयित्वा काबवम् ।
उद् आशवो रथा इव
शपथेभिः सरिष्यथ ॥