००६

सर्वाष् टीकाः ...{Loading}...

०१ अग्निर् नो विद्वान्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् नो विद्वान् प्रत्य् एतु शत्रून्
प्रतिदहन्न् अभिशस्तिम् अरातिम् ।
स सेनां मोहयतु परेषां
निहस्तांश् च कृणवज् जातवेदाः ॥

०२ यूयम् उग्रा मरुत

विश्वास-प्रस्तुतिः ...{Loading}...

यूयम् उग्रा मरुत ईदृशे स्थ-
-अभि प्रेत मृडत सहध्वम् ।
अमीमृडन् वसवो नाथितेभ्यो
+ऽग्निर् ह्य् एषां विद्वान् प्रत्य् एतु शत्रून् ॥

०३ अमित्रसेनां मघवन्न् अस्माञ्

विश्वास-प्रस्तुतिः ...{Loading}...

अमित्रसेनां मघवन्न्
अस्माञ् छत्रूयताम् अभि ।
युवं तान् इन्द्र वृत्रहन्न्
अग्निश् च दहतं प्रति ॥

०४ प्रसूत इन्द्रः प्रवता

विश्वास-प्रस्तुतिः ...{Loading}...

प्रसूत इन्द्रः प्रवता हरिभ्यां
प्र ते वज्रः प्र मृणन्न् एतु शत्रून् ।
जहि प्रतीचो अनूचः पराचो
विश्वं हि रिष्टं कृणुहि सत्यम् एषाम् ॥

०५ सेनामोहनं कृण्व् इन्द्रामित्रेभ्यस्

विश्वास-प्रस्तुतिः ...{Loading}...

सेनामोहनं कृण्व्
इन्द्रामित्रेभ्यस् त्वम् ।
अग्नेर् वातस्य ध्राज्या
तान् विषूचो वि नाशय ॥

०६ इन्द्रः सेनां मोहयतु

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः सेनां मोहयतु
मरुतो घ्नन्त्व् ओजसा ।
चक्षूंष्य् अग्निर् आ दत्तां
पुनर् एतु पराजिताम् ॥