००५

सर्वाष् टीकाः ...{Loading}...

०१ अग्निर् नो दूतः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् नो दूतः प्रत्य् एतु शत्रून्
प्रतिदहन्न् अभिशस्तिम् अरातिम् ।
स चित्तानि मोहयतु परेषां
निहस्तांश् च कृणवज् जातवेदाः ॥

०२ अयम् अग्निर् अमूमुहद्

विश्वास-प्रस्तुतिः ...{Loading}...

अयम् अग्निर् अमूमुहद्
यानि चित्तानि वो हृदि ।
वि वो धमात्य् ओकसः
प्र वो धमाति सर्वतः ॥

०३ इन्द्र चित्तानि मोहय

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र चित्तानि मोहय-
-अर्वाग् आकूत्या अधि ।
अग्नेर् वातस्य ध्राज्या
तान् विषूचो वि नाशय ॥

०४ व्य् एषाम् आकूतय

विश्वास-प्रस्तुतिः ...{Loading}...

व्य् एषाम् आकूतय इत-
-अथो चित्तानि मुह्यत ।
अथो यद् अद्यैषां हृदि
तद् एषां परि निर् जहि ॥

०५ अमीषां चित्तानि प्रतिमोहयन्ती

विश्वास-प्रस्तुतिः ...{Loading}...

अमीषां चित्तानि प्रतिमोहयन्ती
गृहाणाङ्गान्य् अप्वे परेहि ।
अभि प्रेहि निर् दह हृत्सु शोकैर्
ग्राह्यामित्रांस् तमसा विध्य शत्रून् ॥

०६ असौ या सेना

विश्वास-प्रस्तुतिः ...{Loading}...

असौ या सेना मरुतः परेषाम्
अस्मान् अभ्य् ऐत्य् ओजसा स्पर्धमाना ।
तां गुहत तमसापव्रतेन
यथैषाम् अन्यो अन्यं न जानात् ॥