००४

सर्वाष् टीकाः ...{Loading}...

०१ यद् अदः सम्प्रयतीर्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अदः संप्रयतीर्
अहावनदता हते ।
तस्माद् आ नद्यो नाम स्थ
ता वो नामानि सिन्धवः ॥

०२ यत् प्रेषिता वरुणेन

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्रेषिता वरुणेन-
-आच् छीभं समवल्गत ।
तद् आप्नोद् इन्द्रो वो यतीस्
तस्माद् आपो अनु ष्ठन ॥

०३ अपकामं स्यन्दमाना अवीवरत

विश्वास-प्रस्तुतिः ...{Loading}...

अपकामं स्यन्दमाना
अवीवरत वो हिकम् ।
इन्द्रो वः शक्तिभिर् देवीस्
तस्माद् वार् णाम वो हिकम् ॥

०४ एको वो देव

विश्वास-प्रस्तुतिः ...{Loading}...

एको वो देव उपातिष्ठत्
स्यन्दमाना उपेत्य ।
उदानिषुर् महीर् इति
तस्माद् उदकम् उच्यध्वे ॥

०५ आपो देवीर् घृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

आपो देवीर् घृतम् इद् आप आहुर्
अग्नीषोमौ बिभ्रत्य् आप इत् ताः ।
तीव्रो रसो मधुपृचाम् अरङ्गम
आ मा प्राणेन सह वर्चसागन् ॥

०६ आद् इत् पश्याम्य्

विश्वास-प्रस्तुतिः ...{Loading}...

आद् इत् पश्याम्य् उत वा शृणोम्य्
आ मा घोषो गच्छति वाङ् मासाम् ।
मेने भेजानो अमृतस्य तर्हि
हिरण्यवर्णा अतृपं यदापः ॥