००३

सर्वाष् टीकाः ...{Loading}...

०१ पुमान् पुंसः परिजातो

विश्वास-प्रस्तुतिः ...{Loading}...

पुमान् पुंसः परिजातो
ऽश्वत्थः खदिराद् अधि ।
स हन्तु शत्रून् मामकान्
यांश् चाहं द्वेष्मि ये च माम् ॥

०२ तान् अश्वत्थ निः

विश्वास-प्रस्तुतिः ...{Loading}...

तान् अश्वत्थ निः शृणीहि
शत्रून् वैबाध दोधतः ।
इन्द्रेण वृत्रघ्ना मेह्य्
अग्निना वरुणेन च ॥

०३ यथाश्वत्थ निःशृणासि पूर्वान्

विश्वास-प्रस्तुतिः ...{Loading}...

यथाश्वत्थ निःशृणासि
पूर्वान् जातान् उतापरान् ।
एवा पृतन्यतस् त्वम्
अभि तिष्ठ सहस्व च ॥

०४ यथाश्वत्थ विभिनत्स्य् अन्तर्

विश्वास-प्रस्तुतिः ...{Loading}...

यथाश्वत्थ विभिनत्स्य्
अन्तर् महत्य् अर्णवे ।
एवा मे शत्रोश् चित्तानि
विष्वग् भिन्धि सहस्व च ॥

०५ यः सहमानश् चरसि

विश्वास-प्रस्तुतिः ...{Loading}...

यः सहमानश् चरसि
सासहान इव र्षभः ।
तेनाश्वत्थ त्वया वयं
सपत्नान् सहिषीमहि ॥

०६ सिनात्व् एनान् निरृतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

सिनात्व् एनान् निरृतिर्
मृत्योः पाशैर् अमोक्यैः ।
अश्वत्थ शत्रून् मामकान्
यांश् चाहं द्वेष्मि ये च माम् ॥

०७ अधराञ्चः प्र प्लवन्ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

अधराञ्चः प्र प्लवन्तां
छिन्ना नौर् इव बन्धनात् । +++(Bhatt. vandhanāt)+++
न निर् बाध प्रणुत्तानां
पुनर् अस्ति निवर्तनम् ॥

०८ प्रैणान् नुदामि मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रैणान् नुदामि मनसा
प्र चित्तेन प्र ब्रह्मणा ।
प्रैणान् वृक्षस्य शाखय-
-अश्वत्थस्य नुदामसि ॥