००२

सर्वाष् टीकाः ...{Loading}...

०१ हरिणस्य रघुष्यदो ऽधि

विश्वास-प्रस्तुतिः ...{Loading}...

हरिणस्य रघुष्यदो
ऽधि शीर्षणि भेषजम् ।
सुक्षेत्रियं विषाणयाद्
विसूचीनम् अनीनशत् ॥

०२ अनु त्वा हरिणो

विश्वास-प्रस्तुतिः ...{Loading}...

अनु त्वा हरिणो वृषा
पद्भिश् चतुर्भिर् अक्रमीत् ।
विषाणे वि ष्य गुष्पितं
यत् किं च क्षेत्रियं हृदि ॥

०३ अदो यद् अवरोचते

विश्वास-प्रस्तुतिः ...{Loading}...

अदो यद् अवरोचते
चतुष्पक्षम् इव च्छदिः ।
तेन ते सर्वं क्षेत्रियम्
अङ्गेभ्यो नाशयामसि ॥

०४ उद् अगातां भगवती

विश्वास-प्रस्तुतिः ...{Loading}...

उद् अगातां भगवती
विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चताम्
अधमं पाशम् उत्तमम् ॥

०५ यद् आसुतेः क्रियमाणायाः

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आसुतेः क्रियमाणायाः
क्षेत्रियं त्वा व्यानशे ।
वेदाहं तस्य भेषजं
क्षेत्रियं नाशयामि ते ॥

०६ अपवासे नक्षत्राणाम् अपवास

विश्वास-प्रस्तुतिः ...{Loading}...

अपवासे नक्षत्राणाम्
अपवास उतोषसाम् ।
अपास्मत् सर्वम् आमयद्
अप क्षेत्रियम् अक्रमीत् ॥

०७ आप इद् वा

विश्वास-प्रस्तुतिः ...{Loading}...

आप इद् वा उ भेषजीर्
आपो अमीवचातनीः ।
आपो विश्वस्य भेषजीस्
तास् त्वा मुञ्चन्तु क्षेत्रियात् ॥