सर्वाष् टीकाः ...{Loading}...
०१ आ त्वागन् राष्ट्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वागन् राष्ट्रं सह वर्चसोद् इहि
प्राङ् विशां पतिर् एकराट् त्वं वि राज ।
सर्वास् त्वा राजन् प्रदिशो ह्वयन्तु-
-उपसद्यो नमस्यो भवेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वागन् राष्ट्रं सह वर्चसोद् इहि
प्राङ् विशां पतिर् एकराट् त्वं वि राज ।
सर्वास् त्वा राजन् प्रदिशो ह्वयन्तु-
-उपसद्यो नमस्यो भवेह ॥
सर्वाष् टीकाः ...{Loading}...
०२ त्वां विशो वृणतम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वां विशो वृणतं राज्याय
त्वाम् इमाः प्रदिशः पञ्च देवीः ।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व-
-अतो वसूनि वि भजास्य् उग्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वां विशो वृणतं राज्याय
त्वाम् इमाः प्रदिशः पञ्च देवीः ।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व-
-अतो वसूनि वि भजास्य् उग्रः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अच्छ त्वा यन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
अच्छ त्वा यन्तु हविनः सजाता
अग्निर् दूतो अजिरः सन्तुरातिः ।
जायाः पुत्राः सुमनसो भवन्तु
बहुं बलिं प्रति पश्यासा उग्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अच्छ त्वा यन्तु हविनः सजाता
अग्निर् दूतो अजिरः सन्तुरातिः ।
जायाः पुत्राः सुमनसो भवन्तु
बहुं बलिं प्रति पश्यासा उग्रः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अश्विना त्वाग्रे मित्रावरुणोभा
विश्वास-प्रस्तुतिः ...{Loading}...
अश्विना त्वाग्रे मित्रावरुणोभा
विश्वे देवा मरुतस् त्वा ह्वयन्तु ।
सजातानां मध्यमेष्ठा इह स्याः
स्वे क्षेत्रे सवितेव वि राज ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्विना त्वाग्रे मित्रावरुणोभा
विश्वे देवा मरुतस् त्वा ह्वयन्तु ।
सजातानां मध्यमेष्ठा इह स्याः
स्वे क्षेत्रे सवितेव वि राज ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ प्र द्रव
विश्वास-प्रस्तुतिः ...{Loading}...
आ प्र द्रव परमस्याः परावतः
शिवे ते द्यावापृथिवी अभूताम् ।
तद् अयं राजा वरुणस् तथाह
स त्वायम् अह्वत् स इहेदम् एहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ प्र द्रव परमस्याः परावतः
शिवे ते द्यावापृथिवी अभूताम् ।
तद् अयं राजा वरुणस् तथाह
स त्वायम् अह्वत् स इहेदम् एहि ॥
सर्वाष् टीकाः ...{Loading}...
०६ इन्द्रेन्द्रं मनुष्यः परेहि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रेन्द्रं मनुष्यः परेहि
सं यज्ञियास् त्वा वरुणेन संविदानः ।
स त्वायम् अह्वत् स्वे सधस्थे
स देवान् यक्षत् स उ कल्पयाद् विशः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रेन्द्रं मनुष्यः परेहि
सं यज्ञियास् त्वा वरुणेन संविदानः ।
स त्वायम् अह्वत् स्वे सधस्थे
स देवान् यक्षत् स उ कल्पयाद् विशः ॥
सर्वाष् टीकाः ...{Loading}...
०७ पथ्या रेवतीर् बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
पथ्या रेवतीर् बहुधा विरूपाः
सर्वाः सङ्गत्य वरिवस् ते अक्रन् ।
तास् त्वा सर्वाः संविदाना ह्वयन्तु
दशमीम् उग्रः सुमना वशेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
पथ्या रेवतीर् बहुधा विरूपाः
सर्वाः सङ्गत्य वरिवस् ते अक्रन् ।
तास् त्वा सर्वाः संविदाना ह्वयन्तु
दशमीम् उग्रः सुमना वशेह ॥
सर्वाष् टीकाः ...{Loading}...
०८ यद् अजिरेण हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अजिरेण हविषा-
-अव त्वा गमयामसि ।
अत्रात इन्द्रः केवलीर्
विशो बलिहृतस् करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अजिरेण हविषा-
-अव त्वा गमयामसि ।
अत्रात इन्द्रः केवलीर्
विशो बलिहृतस् करत् ॥