सर्वाष् टीकाः ...{Loading}...
०१ आ ते मनश्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते मनश् चक्षुष्यम्
आ ते हृदय्यं ददे ।
पदोष् टे पद्यम् आ ददे
यथा तिष्ठासि मे वशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते मनश् चक्षुष्यम्
आ ते हृदय्यं ददे ।
पदोष् टे पद्यम् आ ददे
यथा तिष्ठासि मे वशे ॥
सर्वाष् टीकाः ...{Loading}...
०२ वाञ्छ मे पादौ
विश्वास-प्रस्तुतिः ...{Loading}...
वाञ्छ मे पादौ तन्वं
वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
अक्ष्यौ वृषण्यन्त्याः केशा
ओष्ठौ मां ते कामेन शुष्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाञ्छ मे पादौ तन्वं
वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
अक्ष्यौ वृषण्यन्त्याः केशा
ओष्ठौ मां ते कामेन शुष्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ मयि त्वा दोषणिश्लिषम्
विश्वास-प्रस्तुतिः ...{Loading}...
मयि त्वा दोषणिश्लिषं
कृणोमि हृदयश्लिषम् ।
यथा मम क्रताव् असो
ममासश् चेद् असीद् अपि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मयि त्वा दोषणिश्लिषं
कृणोमि हृदयश्लिषम् ।
यथा मम क्रताव् असो
ममासश् चेद् असीद् अपि ॥
सर्वाष् टीकाः ...{Loading}...
०४ यासां नाभिर् आरेहणम्
विश्वास-प्रस्तुतिः ...{Loading}...
यासां नाभिर् आरेहणं
हृदि संवननं कृतम् ।
गावो घृतस्य मातरो
अमूं सं वानयन्तु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यासां नाभिर् आरेहणं
हृदि संवननं कृतम् ।
गावो घृतस्य मातरो
अमूं सं वानयन्तु मे ॥
सर्वाष् टीकाः ...{Loading}...
०५ मह्यं त्वा द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
मह्यं त्वा द्यावापृथिवी
मह्यं देवी सरस्वती ।
मह्यं त्वेन्द्रश् चाग्निश् च-
-अहोरात्रे नि यच्छताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मह्यं त्वा द्यावापृथिवी
मह्यं देवी सरस्वती ।
मह्यं त्वेन्द्रश् चाग्निश् च-
-अहोरात्रे नि यच्छताम् ॥