०८९

सर्वाष् टीकाः ...{Loading}...

०१ अयं यो ऽतितरो

विश्वास-प्रस्तुतिः ...{Loading}...

अयं यो ऽतितरो मणिस्
तेनाति तर दुश्यसः ।
सपत्नान् द्विषतो मणे
प्र णुदस्व पृतन्यतः ॥

०२ प्र णुदस्व प्र

विश्वास-प्रस्तुतिः ...{Loading}...

प्र णुदस्व प्र सहस्व
सपत्नान् द्विषतो मणे ।
तराभिमातिं दुश्यसां
वर्चो भङ्ग्धि पृतन्यताम् ॥

०३ वर्चो जहि मन्युम्

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चो जहि मन्युं जह्य्
आकूतिं द्विषतां मणे ।
देवो यो ऽतितरो मणिस्
तेनाति तर धूर्वतः ॥

०४ ये धूर्वन्ति ये

विश्वास-प्रस्तुतिः ...{Loading}...

ये धूर्वन्ति ये द्रुह्यन्ति
ये द्विषन्ति पृतन्यतः ।
सर्वान् सपत्नांस् ते मणिर् +++(Bhatt. sarvāṃ)+++
नि मन्युं द्विषतस् करत् ॥

०५ तव चित्ते तव

विश्वास-प्रस्तुतिः ...{Loading}...

तव चित्ते तव व्रते
तवैवाधस्पदं चरान् ।
देवो यो ऽतितरो मणिस्
तेनाति तर दुश्यसः ॥