०८८

सर्वाष् टीकाः ...{Loading}...

०१ शास इत्था महाम्

विश्वास-प्रस्तुतिः ...{Loading}...

शास इत्था महाꣳ अस्य्
अमित्रघातो अद्भुतः ।
न यस्य हन्यते सखा
न जीयते कदा चन ॥

०२ वि रक्षो वि

विश्वास-प्रस्तुतिः ...{Loading}...

वि रक्षो वि मृधो जहि
वि वृत्रस्य हनू रुज ।
वि मन्युम् इन्द्र वृत्रहन्न्
अमित्रस्याभिदासतः ॥

०३ वि न इन्द्र

विश्वास-प्रस्तुतिः ...{Loading}...

वि न इन्द्र वि मृधो जहि
नीचा यच्छ पृतन्यतः ।
अधमं गमया तमो
यो अस्माꣳ अभिदासति ॥

०४ स्वस्तिदा विशां पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वस्तिदा विशां पतिर्
वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः
सोमपा अभयंकरः ॥

०५ अपेन्द्र द्विषतो मनो

विश्वास-प्रस्तुतिः ...{Loading}...

अपेन्द्र द्विषतो मनो
ऽप जिज्यासतो वधम् ।
वि महच् छर्म यच्छ
वरीयो यावया वधम् ॥