०८७

सर्वाष् टीकाः ...{Loading}...

०१ मनाय्यै तन्तुं प्रथमम्

विश्वास-प्रस्तुतिः ...{Loading}...

मनाय्यै तन्तुं प्रथमं
पश्चेद् अन्या अतन्वत ।
तन् नारीः प्र ब्रवीमि वः
साध्वीर् वः सन्तूर्वरीः ॥

०२ साधुर् वस् तन्तुर्

विश्वास-प्रस्तुतिः ...{Loading}...

साधुर् वस् तन्तुर् भवतु
साधुर् ओतुर् अथो वृता ।
अथो होर्वरीर् यूयं
प्रातर् वोढेव धावत ॥

०३ खर्गला इव पत्वरीर्

विश्वास-प्रस्तुतिः ...{Loading}...

खर्गला इव पत्वरीर्
अपाम् उग्रम् इवायनम् ।
पतन्तु पत्वरीर् इव-
-उर्वरीः साधुना पथा ॥

०४ अवाच्यौ तोतुद्येते तोदेनाश्वतराव्

विश्वास-प्रस्तुतिः ...{Loading}...

अवाच्यौ तोतुद्येते
तोदेनाश्वतराव् इव ।
प्र स्तोमम् उर्वरीणां
शशयानाम् अस्ताविषम् ॥

०५ नारी पञ्चमयूखं सूत्रवत्

विश्वास-प्रस्तुतिः ...{Loading}...

नारी पञ्चमयूखं
सूत्रवत् कृणुतं वसु ।
अरिष्टो अस्य वस्ता
प्रेन्द्र वास उतौ तिर ॥