०८५

सर्वाष् टीकाः ...{Loading}...

०१ नर्दमोदलवुन्तक जिष्णो हापराजितः

विश्वास-प्रस्तुतिः ...{Loading}...

नर्दमोदलवुन्तक
जिष्णो हापराजितः ।
अमुं भ्रूणान्य् अर्पय
स्वयं पाशं न्य् आयति ॥

०२ असुर् ऐतु सहक्रतुर्

विश्वास-प्रस्तुतिः ...{Loading}...

असुर् ऐतु सहक्रतुर्
आत्मा प्राणो अथो बलम् ।
स नो दधातु भद्रया-
-अग्निर् विश्वाद् वसुमान् स्वस्तये ॥

०३ दक्षिणा मा दक्षिणतो

विश्वास-प्रस्तुतिः ...{Loading}...

दक्षिणा मा दक्षिणतो
दक्षिणा पातु सव्यतः ।
पश्चाद् अनुव्याधात् पातु
पुरस्तात् पातु दक्षिणा ॥

०४ शतम् आपो दिव्या

विश्वास-प्रस्तुतिः ...{Loading}...

शतम् आपो दिव्या
मित्रस्य च दक्षिणाः ।
धाता सविताद् रुद्रस्
ते नो मुञ्चन्त्व् अंहसः ॥

०५ शतं पाशा वरुणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

शतं पाशा वरुणस्य
ब्रह्मणस्पतेर् उ शतम् ।
मर्तात् पाशान् नो वि ष्य
शतात् पाशेभ्यो वयं त्वाम् ॥