०८१

सर्वाष् टीकाः ...{Loading}...

०१ इदं चक्षुर् ऋतावरी

विश्वास-प्रस्तुतिः ...{Loading}...

इदं चक्षुर् ऋतावरी
मा मा हासीत् पुरायुषः ।
यद् वां तमो यद् रिपिशम्
अप वां तन् नि दध्मसि ॥

०२ यद् अन्धियं यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अन्धियं यद् अल्गणं
यो ऽर्मो अधिरोहति ।
अयस्मयस् तद् अङ्कुशो
अक्ष्णो ऽर्मम् अप लुम्पतु ॥

०३ यम् अह्याजिम् अजयन्

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अह्याजिम् अजयन् नृचक्षा (Bhatt. ajayaṃ)
यं वा श्येनः शकुनिर् यं सुपर्णः ।
यद् आहुश् चक्षुर् अदितेर् अनन्तं
सोमो नृचक्षा मयि तद् दधातु ॥

०४ यथा चक्षुः सुपर्णस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यथा चक्षुः सुपर्णस्य
यथाश्वस्य यथा शुनः ।
एवा मे अश्विना चक्षुः
कृणुतं पुष्करस्रजा ॥

०५ यस्याः सुपर्णः प्रपतञ्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्याः सुपर्णः प्रपतञ् (Bhatt. prapatan)
चक्षुषा चक्षुर् आददे ।
तस्याः समुद्रजे तव
चक्षुषा चक्षुर् आ ददे ॥