०८०

सर्वाष् टीकाः ...{Loading}...

०१ पुनः प्राणं पुनर्

विश्वास-प्रस्तुतिः ...{Loading}...

पुनः प्राणं पुनर् अपानम् अस्मै
पुनर् व्यानम् उत सोम धेहि ।
आत्मायं चक्षुर् ?उदते समानस्
तम् ऊ नु पाहि तम् ऊ नु जिन्व जागृहि ॥

०२ त्वष्टा रूपेण सविता

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टा रूपेण सविता सवेन-
-अहर् मित्रेण वरुणेन रात्री ।
इन्द्रो ज्यैष्ठ्येन ब्रह्मणायं बृहस्पतिः
पूषास्मै पुनर् असुं दधातु ॥

०३ य आदित्या वसवो

विश्वास-प्रस्तुतिः ...{Loading}...

य आदित्या वसवो ये च रुद्रा
विश्वे देवा अदितिर् या च रात्री ।
यज्ञो भगः सविता ये च देवा
यमो ऽस्मै पुनर् असुं दधातु ॥

०४ पुनस् ते राजा

विश्वास-प्रस्तुतिः ...{Loading}...

पुनस् ते राजा वरुणो ददातु
सोमो राजासुम् इत् ते पुनर् दात् ।
इन्द्रो मरुद्भिर् अश्विना ते भिषज्यताम्
अग्नी रुद्रो ऽसुम् इत् ते पुनर् दात् ॥

०५ पुनर् द्यौर् देवी

विश्वास-प्रस्तुतिः ...{Loading}...

पुनर् द्यौर् देवी पुनर् अन्तरिक्षम्
अग्निर् वातः पवमानो भिषज्यतु ।
ग्राह्याः पाशान् निरृत्याः पाशान् मृत्योः पाशाद्
वाक् त्वा देवी पुनर् ददातु ॥