०७९

सर्वाष् टीकाः ...{Loading}...

०१ हिरण्यपुष्पी सुभगा कूपश्

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यपुष्पी सुभगा
कूपश् चायं सुमङ्गलः ।
ताव् एनां भद्रया धत्ताम्
अमृताव् अमृते भगे ॥

०२ हिरण्यं पृड्वद् धरितम्

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यं पृड्वद् धरितं
तत् ते अङ्गेषु रोहतु ।
तेनेमाम् अश्विना नारीं
भगेनाभि षिञ्चतम् ॥

०३ यथा कूपम् उदहृतस्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा कूपम् उदहृतस्
तृष्यन्तो यन्ति कामिनः ।
एवा त्वा सर्वे देवरः
पतयो यन्तु कामिनः ॥

०४ हिरण्याक्षि मधुवर्णे हिरण्यपरिचर्तने

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्याक्षि मधुवर्णे
हिरण्यपरिचर्तने ।
अङ्को हिरण्ययस् तव
तेनास्यै पतिम् आ वह ॥

०५ यदि वासि तिरो

विश्वास-प्रस्तुतिः ...{Loading}...

यदि वासि तिरो जनं
यदि वा नद्यस् तिरः ।
इयं त्वा मह्यम् ओषधिर्
अङ्केनेव न्य् आ नयात् ॥