०७७

सर्वाष् टीकाः ...{Loading}...

०१ अहं बिभर्मि ते

विश्वास-प्रस्तुतिः ...{Loading}...

अहं बिभर्मि ते मनो
अहं चित्तम् अहं व्रतम् ।
ममेद् अपि क्रताव् असो
मम चित्ते सचावहै ॥

०२ आमना अस इहमना

विश्वास-प्रस्तुतिः ...{Loading}...

आमना अस इहमना अस
इह ते रमतां मनः ।
मयि ते रमतां मनः ॥

०३ आञ्जनस्य मधुघस्य कुष्ठस्य

विश्वास-प्रस्तुतिः ...{Loading}...

आञ्जनस्य मधुघस्य
कुष्ठस्य नलदस्य च ।
वीरोदेकस्य मूलेन
मुखे निमन्दनं कृतम् ॥

०४ मधु मे अन्तर्

विश्वास-प्रस्तुतिः ...{Loading}...

मधु मे अन्तर् आस्ये
मुखे निमन्दनं कृतम् ।
तत्रो त्वं वि वर्तस्व
नराचीव वर्तसि ॥

०५ यथा नेमी रथचक्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा नेमी रथचक्रं
समन्तं परिषस्वजे ।
एवा परि ष्वजस्व मा
यथासन् मयि ते मनः ॥