०७६

सर्वाष् टीकाः ...{Loading}...

०१ पयो मह्यम् ओषधयः

विश्वास-प्रस्तुतिः ...{Loading}...

पयो मह्यम् ओषधयः
पयो मे वीरुधो दधन् ।
अपां पयस्वद् यत् पयस्
तन् मे वर्षन्तु वृष्टयः ॥

०२ पयो मह्यं पयस्वन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

पयो मह्यं पयस्वन्तो
हस्तिनो मे पयो दधन् ।
पयः पतत्रिणो मह्यम्
ऐणेया मे पयो दधन् ॥

०३ पयस्वन् मे क्षेत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

पयस्वन् मे क्षेत्रम् अस्तु
पयस्वद् उत धान्यम् ।
अहं पयस्वान् भूयासं
गावो म उत पयस्वतीः ॥

०४ पयो मह्यम् अप्सरसो

विश्वास-प्रस्तुतिः ...{Loading}...

पयो मह्यम् अप्सरसो
गन्धर्वा मे पयो दधन् ।
पयो मे विश्वा भूतानि
वातो दधातु मे पयः ॥

०५ पयो मह्यं द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

पयो मह्यं द्यावापृथिवी
अन्तरिक्षं पयो दधत् ।
पयो म इन्द्रश् चाग्निश् च
धाता दधातु मे पयः ॥