०७४

सर्वाष् टीकाः ...{Loading}...

०१ अचिक्रदत् स्वपा इह

विश्वास-प्रस्तुतिः ...{Loading}...

अचिक्रदत् स्वपा इह भवद्
अग्ने यजस्व रोदसी उरूची ।
आमुं नय नमसा रातहव्यो
युञ्जन्तु सुप्रजसं पञ्च जनाः ॥

०२ दूरे चित् सन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

दूरे चित् सन्तम् अरुषास इन्द्रम्
आ च्यावयन्तु सख्याय विप्रम् ।
यद् गायत्रीं बृहतीम् अर्कम् अस्मै
सौत्रामण्यादधृषन् ?तु देवाः ॥

०३ अद्भ्यस् त्वा राजा

विश्वास-प्रस्तुतिः ...{Loading}...

अद्भ्यस् त्वा राजा वरुणो जुहाव
सोमस् त्वायं ह्वयतु पर्वतेभ्यः ।
इन्द्रस् त्वायं ह्वयतु विड्भ्य आभ्यः
श्येनो भूत्वा विश आ पतेमाः ॥

०४ श्येनं हविर् नयत्व्

विश्वास-प्रस्तुतिः ...{Loading}...

श्येनं हविर् नयत्व् आ परस्माद्
अन्यक्षेत्रे अपरुद्धं चरन्तम् ।
अश्विना पन्थां कृणुतां सुगं ते
गर्भं सजाता अभि सं विशध्वम् ॥

०५ श्येनं हविः कश्यपस्योप

विश्वास-प्रस्तुतिः ...{Loading}...

श्येनं हविः कश्यपस्योप शिक्ष-
-इन्द्रं वातः प्रहितो दूत आ वह ।
विषह्य शत्रून् सेनाग्रैर्
विशो वृणानो ऽव गच्छ कामी ॥

०६ यस् ते हवम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते हवं परितिष्ठात्
सजात उत निष्टियः ।
अपाच इन्द्र तान् नीत्वा- +++(Bhatt. tāṃ)+++
-अथेमम् अव गमय ॥

०७ ह्वयन्तु त्वा पञ्च

विश्वास-प्रस्तुतिः ...{Loading}...

ह्वयन्तु त्वा पञ्च जनाः
पतिं मित्रा अवृषत । +++(mss. patimitrā; emend. Barret prati)+++
इन्द्राग्नी विश्वे देवा
विशि क्षेमम् अदीधरन् ॥