०७३

सर्वाष् टीकाः ...{Loading}...

०१ इदं तन् मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

इदं तन् मित्रावरुणा हविर् वां
येनाग्रे देवा अमृतत्वम् आयन् ।
तेनास्मै क्षत्रम् अधि धारयौजो
ऽसपत्नाः प्रदिशः सन्त्व् अस्मै ॥

०२ घृतस्य धारा मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

घृतस्य धारा मित्रावरुणा
दुहां वां धेनुर् अनपस्फुरन्ती ।
देवः सवितोत वायुर् अग्निर्
भूतस्य पतिर् इह शर्म यच्छात् ॥

०३ शं नस् तन्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नस् तन् मित्रावरुणा गृणीतं
तृढा अमित्रा बहुधा वि शेराम् ।
जयतु सेनोप घोष एतु
पृथक् सत्वानो बहुधा भरन्ताम् ॥

०४ हनाम मित्रावरुणाव् अमित्रान्

विश्वास-प्रस्तुतिः ...{Loading}...

हनाम मित्रावरुणाव् अमित्रान्
भवाम भद्रे सुकृतस्य लोके ।
पारयान् नः सविता देवो अग्निर्
जयामेदं हविषा कश्यपस्य ॥

०५ वातो यं मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

वातो यं मित्रावरुणा तद् आह
विश्वन्तरं निर्मितं कश्यपस्य ।
अध्वर्यवो मरुतो यस्यासन्
तेन देवेभ्यो वरिमाणि चक्रुः ॥