०७१

सर्वाष् टीकाः ...{Loading}...

०१ कृतव्यधनि विध्य तम्

विश्वास-प्रस्तुतिः ...{Loading}...

कृतव्यधनि विध्य तं
यश् चकार तम् इज् जहि ।
न त्वाम् अचक्रुषे वयं
वधाय सं शिशीमहे ॥

०२ यथा ते देव्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा ते देव्य् ओषधे
प्रतीचीनं फलं कृतम् ।
एवा त्वं कृत्वने कृत्यां
हस्तगृह्य परा णय ॥

०३ पुनः कृत्यां कृत्याकृते

विश्वास-प्रस्तुतिः ...{Loading}...

पुनः कृत्यां कृत्याकृते +++(read kṛtyā kṛtyākṛtaṃ (?))+++
गोधेवावटम् अन्व् अयत् ।
सक्तुर् इव सक्तुप्रेष्यं
प्रतीची प्रति दध्वसत् ॥

०४ यां ते चक्रुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यां ते चक्रुर् वर्तनेषु
वार्ताकुषु वृतासु च ।
मण्डूके कृत्यां यां चक्रुस्
तया कृत्याकृतो जहि ॥

०५ अग्निर् इवैतु प्रतिकूलम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् इवैतु प्रतिकूलम्
अनुकूलम् इवोदकम् ।
सुखे रथ इव वर्ततां
कृत्या कृत्याकृतं कृता ॥