०६९

सर्वाष् टीकाः ...{Loading}...

०१ वातः पुरस्तात् पवसे

विश्वास-प्रस्तुतिः ...{Loading}...

वातः पुरस्तात् पवसे नभस्वान् ।
नमस् ते विद्म ते नामधेयं मा नो हिंसीः ॥

०२ तपोजा अमूरो दक्षिणतः

विश्वास-प्रस्तुतिः ...{Loading}...

तपोजा अमूरो दक्षिणतः पवसे नभस्वान् । +++(Bhatt. asuro; amūro see Griffiths 2009, 34)+++
नमस् ते विद्म ते नामधेयं मा नो हिंसीः ॥ +++(refrain written in K)+++

०३ विश्वायुर् विश्वजनीनः प्रतीच्या

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वायुर् विश्वजनीनः प्रतीच्या दिशः पवसे नभस्वान् ।
नमस् ते विद्म ते नामधेयं मा नो हिंसीः ॥ +++(refrain written in K)+++

०४ शिवो वैश्वदेव उदीच्या

विश्वास-प्रस्तुतिः ...{Loading}...

शिवो वैश्वदेव उदीच्या दिशः पवसे नभस्वान् ।
नमस् ते विद्म ते नामधेयं मा नो हिंसीः ॥ +++(refrain written in K)+++

०५ अतिष्ठावान् बार्हस्पत्य ऊर्ध्वाया

विश्वास-प्रस्तुतिः ...{Loading}...

अतिष्ठावान् बार्हस्पत्य ऊर्ध्वाया दिशः पवसे नभस्वान् ।
नमस् ते विद्म ते नामधेयं मा नो हिंसीः ॥