०६७

सर्वाष् टीकाः ...{Loading}...

०१ यस् त्वारायः प्रविवेश

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वारायः प्रविवेश-
-अजानिर् जनिवाꣳ उत ।
अथो यस् तन्वं पस्पर्श
तम् इतो निर् णयामसि ॥

०२ निष् ट्वाराय नयामसि

विश्वास-प्रस्तुतिः ...{Loading}...

निष् ट्वाराय नयामसि
य इमां प्रविवेशिथ ।
आत्मानम् अस्या मा हिंसीर्
अन्यत्र चर मेह भूः ॥

०३ यद् अरायेमाम् उपायसि

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अरायेमाम् उपायसि
धेह्य् अस्यै रयिपोषणम् ।
प्रजां चिद् अस्या मा हिंसीर्
अन्यत्र चर मेह भूः ॥

०४ यद् अरायेहायसि हनाम

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अरायेहायसि
हनाम वीरुधा त्वा ।
अथो खनित्रिमैस् त्वा-
-आद् वृषेण यथाभगम् ॥

०५ यद् अरायासूयं स्त्रैषूयम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अरायासूयं
स्त्रैषूयम् आवतोक्यम् ।
यत् पैतृषद्यं दौर्भाग्यं
तद् इतो निर् णयामसि ॥