०६५

सर्वाष् टीकाः ...{Loading}...

०१ बृहत् ते वर्चः

विश्वास-प्रस्तुतिः ...{Loading}...

बृहत् ते वर्चः प्रथताम् उप द्यां
मित्रेभ्य एधि सुरभिः सुवर्चाः ।
अधि ते राजा वरुणो ब्रवीतु
तस्मा उ त्वं हविषा भागधा असः ।
शतं हेमन्तान् दमया सपत्नान्
विशस् त्वा सर्वा अनु गुङ्गवो भवन्तु ॥

०२ यस् त्वोत्पिपानं प्रत्युत्पिपाति

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वोत्पिपानं प्रत्युत्पिपाति
यस् त्वा सजातो विरिफात्य् अन्तितः ।
इन्द्रस् तं योक्त्रे अधमे युनक्तु (Bhatt. adhi me)
तस्मै (…) ॥ (see 1def)

०३ यस् त्वा यच्छन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा यच्छन्तं प्रतियंयमीति
यस् त्वा जिगीषात् पृतनाः समर्ये ।
बृहस्पतिस् तम् अव जङ्घनीतु
तस्मै (…) ॥ (see 1def)

०४ ये ते शुल्कम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते शुल्कम् आहरान् य उ ते बलिं (Bhatt. āharāṃ)
सोमः सजातान् उप सं नमाति ते ।
अग्निः सयुग्वान् अधि ते ब्रवीतु
तस्मै (…) ॥ (see 1def)

०५ वरिष्ठैधि पुरुः प्रजया

विश्वास-प्रस्तुतिः ...{Loading}...

वरिष्ठैधि पुरुः प्रजया सुवीरो
अभि प्र युङ्क्ष्व दमया सपत्नान् ।
इन्द्रो मरुत्वान् अधि ते ब्रवीतु
तस्मा उ त्वं हविषा भागधा असः ।
शतं हेमन्तान् दमया सपत्नान्
विशस् त्वा सर्वा अनु गुङ्गवो भवन्तु ॥