०६४

सर्वाष् टीकाः ...{Loading}...

०१ और्ध्वनभसः प्रथमः सूर्यचेता

विश्वास-प्रस्तुतिः ...{Loading}...

और्ध्वनभसः प्रथमः
सूर्यचेता उशद्भ्यः ।
चकार कृत्याम् आसुरः
सा नो भवतु भद्रया ॥

०२ य इमां कृत्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

य इमां कृत्याम् उपजह्रुर्
ये वा चकमिरे ?क्षितम् ।
देवानां सर्वेषां स्वसा
तान् देवी निरृतिर् हनत् ॥

०३ कश्यपस्य प्रतिसरो द्यौष्

विश्वास-प्रस्तुतिः ...{Loading}...

कश्यपस्य प्रतिसरो
द्यौष् पिता पृथिवी माता ।
यथाभिचक्र देवास्
तथापि कृणुता पुनः ॥

०४ याः कृत्या नीलवतीर्

विश्वास-प्रस्तुतिः ...{Loading}...

याः कृत्या नीलवतीर्
याः कृत्याः पाश्यावतीः ।
कृत्या याश् चक्रुर् लोहिनीस्
ता इतो नाशयामसि ॥

०५ यदि वा इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि वा इदम् आजह्रुर्
इमे भद्रा असन्न् इति ।
कृत्यासि कल्याण्य् असि
सामुं कर्तारम् अन्व् इहि ॥