०६२

सर्वाष् टीकाः ...{Loading}...

०१ ये पिशाचा इमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये पिशाचा इमां वित्तिम्
आकूतिं मोहयन्ति नः ।
तेषां त्वम् अग्ने नाशय
वर्चश् चित्तम् अथो प्रजाम् ॥

०२ नाशयाग्ने पिशाचानां वर्चश्

विश्वास-प्रस्तुतिः ...{Loading}...

नाशयाग्ने पिशाचानां
वर्चश् चित्तम् अथो प्रजाम् ।
अथाशां मह्यं राधय
यथाहं कामये तथा ॥

०३ आशां मह्यं राधयित्वा

विश्वास-प्रस्तुतिः ...{Loading}...

आशां मह्यं राधयित्वा-
-इन्द्रियेण यथामृताम् ।
त्वम् अग्ने क्रव्यादः सर्वान्
पिशाचाँ अर्चिषा दह ॥

०४ प्रति दह यातुधानान्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति दह यातुधानान्
मूरदेवान् विचर्षणे ।
ये नो दुरस्या द्वेषेण-
-अथाशां मोहयन्ति नः ॥

०५ ये नः पशुषु

विश्वास-प्रस्तुतिः ...{Loading}...

ये नः पशुषु दिप्सन्त्य्
आशायां पुरुषेषु च ।
तांस् त्वं सहस्राक्षेशानः
पिशाचाँ अर्चिषा दह ॥