०६१

सर्वाष् टीकाः ...{Loading}...

०१ येभिः पाशैर् अभिदधासि

विश्वास-प्रस्तुतिः ...{Loading}...

येभिः पाशैर् अभिदधासि द्रुह्वणः
समामिनो अनृतं ये समामिरे ।
तांस् ते वि ष्याम्य् आयुषे बलाय-
-अनमीवं पितुम् अद्धि प्रसूतः ॥

०२ अनागा बभ्रो अयम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनागा बभ्रो अयम् अस्तु वीरो
द्रुहः पाशेभ्यः परि पाह्य् एनम् ।
राजन् प्रविद्वान् प्र मुमुग्धि पाशान्
यस्मै चरामि हविषा घृतेन ॥

०३ कश्यप इन्द्राय हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

कश्यप इन्द्राय हविषा चचार
हरित्वतीषु मघवा मघोने ।
पस्पार विश्वा भुवनस्य गोपा
अन्तरिक्षस्य महतो विमाने ॥

०४ अपूपं नाभिलं ते

विश्वास-प्रस्तुतिः ...{Loading}...

अपूपं नाभिलं ते घृतश्चुतं
नदीनां पदे सुश्रुतं जुहोमि ।
प्रविद्वान् राजन् प्र मुमुग्धि पाशान्
अन्यस्य पत्नी विधवा यथासत् ॥

०५ अनातुरेण वरुणः पथेमम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनातुरेण वरुणः पथेमं
स्वस्तिभिर् अति दुर्गाणि नेषत् ।
तम् अश्विना प्रतिगृह्या स्वस्तये
दोषा एनम् उषसे सं प्र यच्छात् ॥