सर्वाष् टीकाः ...{Loading}...
०१ त्रयः पोषास् त्रिवृतः
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयः पोषास् त्रिवृतः श्रयन्ताम्
अनक्तु पूषा पयसा घृतेन ।
अन्नस्य भूमा पुरुषस्य भूमा
भूमा पशूनां त इह श्रयन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रयः पोषास् त्रिवृतः श्रयन्ताम्
अनक्तु पूषा पयसा घृतेन ।
अन्नस्य भूमा पुरुषस्य भूमा
भूमा पशूनां त इह श्रयन्ताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इमम् आदित्या वसुना
विश्वास-प्रस्तुतिः ...{Loading}...
इमम् आदित्या वसुना सम् उक्षत-
-इमम् अग्ने वर्धय वावृधानः ।
अस्मिन् त्रिवृच् छ्रयतां पोषयिष्णुर्
इमम् इन्द्र सं सृज वीर्येण ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमम् आदित्या वसुना सम् उक्षत-
-इमम् अग्ने वर्धय वावृधानः ।
अस्मिन् त्रिवृच् छ्रयतां पोषयिष्णुर्
इमम् इन्द्र सं सृज वीर्येण ॥
सर्वाष् टीकाः ...{Loading}...
०३ भूमिष् ट्वा पातु
विश्वास-प्रस्तुतिः ...{Loading}...
भूमिष् ट्वा पातु हरितेन विश्वभृद्
अग्निः पिपर्त्व् अयसा सजोषाः ।
वीरुद्भिस् ते अर्जुनं संविदानं
वर्चो दधातु सुमनस्यमानम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूमिष् ट्वा पातु हरितेन विश्वभृद्
अग्निः पिपर्त्व् अयसा सजोषाः ।
वीरुद्भिस् ते अर्जुनं संविदानं
वर्चो दधातु सुमनस्यमानम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ त्रेधा जातं जन्मनेदम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रेधा जातं जन्मनेदं हिरण्यम्
अग्नेर् एकं प्रियतमं बभूव ।
सोमस्यैकं हिंसितस्य परापतद्
अपाम् एकं वेधसो रेत आहुस्
तत् ते हिरण्यं त्रिवृद् अस्त्व् आयुषे ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रेधा जातं जन्मनेदं हिरण्यम्
अग्नेर् एकं प्रियतमं बभूव ।
सोमस्यैकं हिंसितस्य परापतद्
अपाम् एकं वेधसो रेत आहुस्
तत् ते हिरण्यं त्रिवृद् अस्त्व् आयुषे ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्र्यायुषं जमदग्नेः कश्यपस्य
विश्वास-प्रस्तुतिः ...{Loading}...
त्र्यायुषं जमदग्नेः
कश्यपस्य त्र्यायुषम् ।
त्रेधामृतस्य चक्षणं
त्रीण्य् आयूंषि नस् कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्र्यायुषं जमदग्नेः
कश्यपस्य त्र्यायुषम् ।
त्रेधामृतस्य चक्षणं
त्रीण्य् आयूंषि नस् कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०६ त्रयः सुपर्णास् त्रिवृता
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयः सुपर्णास् त्रिवृता यद् आयन्न्
एकाक्षरम् अभिसंभूय शक्राः ।
प्रत्य् औहन् मृत्युम् अमृतेन साकम्
अन्तर्दधाना भुवनानि विश्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रयः सुपर्णास् त्रिवृता यद् आयन्न्
एकाक्षरम् अभिसंभूय शक्राः ।
प्रत्य् औहन् मृत्युम् अमृतेन साकम्
अन्तर्दधाना भुवनानि विश्वा ॥
सर्वाष् टीकाः ...{Loading}...
०७ दिवस् त्वा पातु
विश्वास-प्रस्तुतिः ...{Loading}...
दिवस् त्वा पातु हरितं
मध्यात् त्वा पात्व् अर्जुनम् ।
भूम्या अयस्मयं पातु
प्रागाद् देवपुरा अयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवस् त्वा पातु हरितं
मध्यात् त्वा पात्व् अर्जुनम् ।
भूम्या अयस्मयं पातु
प्रागाद् देवपुरा अयम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ इमास् तिस्रो देवपुरास्
विश्वास-प्रस्तुतिः ...{Loading}...
इमास् तिस्रो देवपुरास्
तास् त्वा रक्षन्तु सर्वतः ।
तास् त्वं बिभ्रद् आयुष्मान् वर्चस्वान्
उत्तरो द्विषतो भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमास् तिस्रो देवपुरास्
तास् त्वा रक्षन्तु सर्वतः ।
तास् त्वं बिभ्रद् आयुष्मान् वर्चस्वान्
उत्तरो द्विषतो भव ॥
सर्वाष् टीकाः ...{Loading}...
०९ पुरं देवानाम् अमृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
पुरं देवानाम् अमृतं हिरण्यं
य आबेधे प्रथमो देवो अग्रे ।
तस्मै नमो दश प्राचीः कृणोम्य्
अनु मन्यतां त्रिवृता वधेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुरं देवानाम् अमृतं हिरण्यं
य आबेधे प्रथमो देवो अग्रे ।
तस्मै नमो दश प्राचीः कृणोम्य्
अनु मन्यतां त्रिवृता वधेन ॥
सर्वाष् टीकाः ...{Loading}...
१० नव प्राणान् नवभिः
विश्वास-प्रस्तुतिः ...{Loading}...
नव प्राणान् नवभिः सं मिमीते
दीर्घायुत्वाय शतशारदाय ।
हरिते त्रीणि रजते त्रीण्य्
अयसि त्रीणि तपसाविष्टितानि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नव प्राणान् नवभिः सं मिमीते
दीर्घायुत्वाय शतशारदाय ।
हरिते त्रीणि रजते त्रीण्य्
अयसि त्रीणि तपसाविष्टितानि ॥
सर्वाष् टीकाः ...{Loading}...
११ आ ते चृतत्व्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते चृतत्व् अर्यमा-
-आ पूषा बृहस्पतिः ।
अहर्जातस्य यन् नाम
तेन ते ऽति चृतामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते चृतत्व् अर्यमा-
-आ पूषा बृहस्पतिः ।
अहर्जातस्य यन् नाम
तेन ते ऽति चृतामसि ॥
सर्वाष् टीकाः ...{Loading}...
१२ ऋतुभिष् ट्वार्तवैर् इत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतुभिष् ट्वार्तवैर् इत्य् एका ॥ +++(PS 1.54.5 is repeated)+++
मूलम् ...{Loading}...
मूलम् (GR)
ऋतुभिष् ट्वार्तवैर् इत्य् एका ॥ +++(PS 1.54.5 is repeated)+++