०५८

सर्वाष् टीकाः ...{Loading}...

०१ व्यावृत्तौ पथो गावौ

विश्वास-प्रस्तुतिः ...{Loading}...

व्यावृत्तौ पथो गावौ
व्यस्यौ युग्या उत ।
विद्वेषणं किलासिथ
यथैनौ व्य् अदिद्विषः ॥

०२ वि किलैनाव् अदिद्विषः

विश्वास-प्रस्तुतिः ...{Loading}...

वि किलैनाव् अदिद्विषः
शश्वतीभ्यः समाभ्यः ।
अथोल्मुकम् इव खादिरम्
अग्निर् वाम् अस्त्व् अन्तरा ॥

०३ सिंहस् ते अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

सिंहस् ते अस्तु चक्षुषे
व्याघ्रः परिष्वञ्जने ।
अग्निर् वाम् अस्त्व् अन्तरा
यथा वां न सहासति ॥

०४ व्य् अद्यौद् व्य्

विश्वास-प्रस्तुतिः ...{Loading}...

व्य् अद्यौद् व्य् अततनद् (Bhatt. vy adyaur vy adya tatanad)
व्य् आस्थत् कपट्व् इव । (Bhatt. vy āstad)
या ओषधे प्रसर्पसि
व्य् अग्निर् इव तौ दह ॥

०५ वि वां यन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

वि वां यन्तु हृदयानि
वि चित्तानि मनांसि च ।
अथो यत् तन्वोः संगतं
तद् वाम् अस्तु विदूरकम् ॥

०६ अस्ति वै वाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्ति वै वां विद्विकम्
उभौ शयने अन्तरा ।
विष्वञ्चौ पर्य् आ वर्तेथां
यथा वां न सहासति ॥