०५५

सर्वाष् टीकाः ...{Loading}...

०१ दिवो जातो दिवस्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो जातो दिवस् पुत्रो
यस्माज् जातं महत् सहः ।
अश्वत्थम् अग्रे जैत्राय-
-अच्छा देवं वदामसि ॥

०२ तं त्वाश्वा यथा

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वाश्वा यथा रथम्
उप तिष्ठन्तु राजानः ।
समितिभ्यो विवक्तवे ॥

०३ त्वया वयं देवजात

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया वयं देवजात
सर्वाः प्राशो जयामसि ।
उत सत्या उतानृताः ॥

०४ यो अश्वत्थेन मित्रेण

विश्वास-प्रस्तुतिः ...{Loading}...

यो अश्वत्थेन मित्रेण
समितीर् अवगच्छति ।
जयात् स सर्वाः पृतना
याश् च सत्या उतानृताः ॥

०५ अधराञ्चो निर् द्रवन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

अधराञ्चो निर् द्रवन्तु
समित्या उलुलाकृताः ।
अश्वत्थमित्रं पुरुषं
ये वाचा पृतन्यान् ॥