०५३

सर्वाष् टीकाः ...{Loading}...

०१ ये देवाः पुरःसदो

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवाः पुरःसदो ऽग्निनेत्रा रक्षोहणः ।
ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा ॥

०२ ये देवा दक्षिणासदो

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवा दक्षिणासदो यमनेत्रा रक्षोहणः ।
ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा ॥

०३ ये देवाः पश्चात्सदो

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवाः पश्चात्सदो मरुन्नेत्रा रक्षोहणः ।
ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा ॥

०४ ये देवा उत्तरासदः

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवा उत्तरासदः सोमनेत्रा रक्षोहणः ।
ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा ॥

०५ ये देवा अन्तरिक्षसदो

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवा अन्तरिक्षसदो बृहस्पतिनेत्रा रक्षोहणः ।
ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा ॥