०५१

सर्वाष् टीकाः ...{Loading}...

०१ अग्निं वयं त्रातारम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणो अग्निर् आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥

०२ इन्द्रं वयं त्रातारम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाण इन्द्र आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥

०३ सोमं वयं त्रातारम्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणः सोम आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥

०४ विश्वान् वयं देवांस्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वान् वयं देवांस् त्रातॄन् यजामहे
मेनिघ्नो वलगघ्नः ।
जुषाणा विश्वे देवा आज्यस्य
मेनिहनो वलगहनस्
त्रातारस् त्रायन्तां स्वाहा ॥

०५ बृहस्पतिं वयं त्रातारम्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिं वयं त्रातारं यजामहे
मेनिहनं वलगहनम् ।
जुषाणो बृहस्पतिर् आज्यस्य
मेनिहा वलगहा
त्राता त्रायतां स्वाहा ॥