०५०

सर्वाष् टीकाः ...{Loading}...

०१ अग्निं वयं त्रातारम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं वयं त्रातारं हवामहे
य इमं त्रायाता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणो अग्निर् आज्यस्य त्राता त्रायतां स्वाहा ॥

०२ मित्रावरुणौ वयं त्रातारौ

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रावरुणौ वयं त्रातारौ हवामहे
याव् इमं त्रायैते अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणौ मित्रावरुणाव् आज्यस्य त्रातारौ त्रायेतां स्वाहा ॥

०३ मरुतो वयं त्रातॄन्

विश्वास-प्रस्तुतिः ...{Loading}...

मरुतो वयं त्रातॄन् हवामहे
य इमं त्रायान्ता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणा मरुत आज्यस्य त्रातारस् त्रायन्तां स्वाहा ॥

०४ पितॄन् वयं त्रातॄन्

विश्वास-प्रस्तुतिः ...{Loading}...

पितॄन् वयं त्रातॄन् हवामहे
य इमं त्रायान्ता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणाः पितर आज्यस्य त्रातारस् त्रायन्तां स्वाहा ॥

०५ बृहस्पतिं वयं त्रातारम्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिं वयं त्रातारं हवामहे
य इमं त्रायाता अस्माद् यक्ष्माद् अस्माद् आमयतः ।
जुषाणो बृहस्पतिर् आज्यस्य त्राता त्रायतां स्वाहा ॥