०४१

सर्वाष् टीकाः ...{Loading}...

०१ उद् असौ सूर्यो

विश्वास-प्रस्तुतिः ...{Loading}...

उद् असौ सूर्यो अगाद्
उद् अयं मामको भगः ।
तेनाहं विद्वला पतिम्
अभ्य् असाक्षि विषासहिः ॥

०२ अहं केतुर् अहम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहं केतुर् अहं मूर्धा-
-अहम् उग्रा विवाचनी ।
ममेद् अपि क्रतुं पतिः
सेहानाया उपा चरात् ॥

०३ मम पुत्राः शत्रुहणो

विश्वास-प्रस्तुतिः ...{Loading}...

मम पुत्राः शत्रुहणो
ऽथो मे दुहिता विराट् ।
उताहम् अस्मि संजया
पत्यां मे श्लोक उत्तमः ॥

०४ येन देवा असुरेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

येन देवा असुरेभ्यो
ऽभवन् द्युम्नवत्तराः ।
इदं तद् अक्रि देवा
असपत्ना किलाभुवम् ॥

०५ असपत्ना सपत्नघ्नी जयन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

असपत्ना सपत्नघ्नी (see Karmapañjikā)
जयन्त्य् अभिभूवरी ।
मुष्णाम्य् अन्यासां भगं
वासो अस्थेयसाम् इव ॥