सर्वाष् टीकाः ...{Loading}...
०१ इहेत देवीर् अयम्
विश्वास-प्रस्तुतिः ...{Loading}...
इहेत देवीर् अयम् अस्तु पन्था
अयं वो लोकः शरणाय साधुः ।
इदं हविर् जुषमाणा उदेत
क्षिप्रा राज्ञा वरुणेन प्रसूताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहेत देवीर् अयम् अस्तु पन्था
अयं वो लोकः शरणाय साधुः ।
इदं हविर् जुषमाणा उदेत
क्षिप्रा राज्ञा वरुणेन प्रसूताः ॥
सर्वाष् टीकाः ...{Loading}...
०२ इहैतु राजा वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
इहैतु राजा वरुणो ऽजिराभिर्
देवो देवीभिर् हविषो जुषाणः ।
कृणुष्व पन्थाम् उदयानम् ऊर्मिभिर्
अनेन बभ्रो महता पृथिव्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैतु राजा वरुणो ऽजिराभिर्
देवो देवीभिर् हविषो जुषाणः ।
कृणुष्व पन्थाम् उदयानम् ऊर्मिभिर्
अनेन बभ्रो महता पृथिव्याः ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्रिये ध्रियध्वम् उदयानम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रिये ध्रियध्वम् उदयानम् उन्दतीर्
ओक औघानाम् इह रारणीतु ।
अनेन वेगान् असृजत् प्रजापतिर्
इह ध्रियध्वं शरणं सरस्वतीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रिये ध्रियध्वम् उदयानम् उन्दतीर्
ओक औघानाम् इह रारणीतु ।
अनेन वेगान् असृजत् प्रजापतिर्
इह ध्रियध्वं शरणं सरस्वतीः ॥
सर्वाष् टीकाः ...{Loading}...
०४ इह वो जूतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
इह वो जूतिर् ध्रियतां समान्य्
अपाम् अग्नीनां वरुणस्य सोम ।
अनेन वेगान् असृजत् त्विषीमतो
ऽहिंस्राञ् छम्भून् अजिराꣳ अतृष्णजः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह वो जूतिर् ध्रियतां समान्य्
अपाम् अग्नीनां वरुणस्य सोम ।
अनेन वेगान् असृजत् त्विषीमतो
ऽहिंस्राञ् छम्भून् अजिराꣳ अतृष्णजः ॥
सर्वाष् टीकाः ...{Loading}...
०५ ये पारतो मध्यतो
विश्वास-प्रस्तुतिः ...{Loading}...
ये पारतो मध्यतो ये ते अन्तयोर्
अप्सुषदो निहितास् तीरे अग्नयः ।
ते देवजा इह नो मृडयन्त्व्
आपश् च जन्मन्न् उभये सबन्धवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये पारतो मध्यतो ये ते अन्तयोर्
अप्सुषदो निहितास् तीरे अग्नयः ।
ते देवजा इह नो मृडयन्त्व्
आपश् च जन्मन्न् उभये सबन्धवः ॥
सर्वाष् टीकाः ...{Loading}...
०६ इदं व आपो
विश्वास-प्रस्तुतिः ...{Loading}...
इदं व आपो हृदयम्
अयं वत्स ऋतावरीः ।
इहेत्थम् एत शक्वरीर्
यत्रेमꣳ वेशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं व आपो हृदयम्
अयं वत्स ऋतावरीः ।
इहेत्थम् एत शक्वरीर्
यत्रेमꣳ वेशयामसि ॥