सर्वाष् टीकाः ...{Loading}...
०१ यत् ते ग्रावा
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते ग्रावा बाहुच्युतो अचुच्योन्
नरो यद् वा ते हस्तयोर् अधुक्षन् ।
तत् त आ प्यायतां तत् ते
नि ष्ट्यायतां सोम राजन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते ग्रावा बाहुच्युतो अचुच्योन्
नरो यद् वा ते हस्तयोर् अधुक्षन् ।
तत् त आ प्यायतां तत् ते
नि ष्ट्यायतां सोम राजन् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् ते ग्राव्णा
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते ग्राव्णा चिच्छिदुः सोम राजन्
प्रियाण्य् अङ्गा सुकृता पुरूणि ।
तत् सं धत्स्वाज्येनोत वर्धयस्व-
-अनागसो यथा सदम् इत् संक्षियेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते ग्राव्णा चिच्छिदुः सोम राजन्
प्रियाण्य् अङ्गा सुकृता पुरूणि ।
तत् सं धत्स्वाज्येनोत वर्धयस्व-
-अनागसो यथा सदम् इत् संक्षियेम ॥
सर्वाष् टीकाः ...{Loading}...
०३ यां ते त्वचम्
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते त्वचं बिभिदुर् यां च योनिं
यद् वास्थानात् प्रच्युतो यदि वा सुतो ऽसि ।
त्वया सोम क्ल्̥प्तम् अस्माकम् एतद्
उप नो राजन् सुकृते ह्वयस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां ते त्वचं बिभिदुर् यां च योनिं
यद् वास्थानात् प्रच्युतो यदि वा सुतो ऽसि ।
त्वया सोम क्ल्̥प्तम् अस्माकम् एतद्
उप नो राजन् सुकृते ह्वयस्व ॥
सर्वाष् टीकाः ...{Loading}...
०४ सं प्राणापानाभ्यां सम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं प्राणापानाभ्यां सम् उ चक्षुषा
सं श्रोत्रेण गच्छस्व सोम राजन् ।
यत् ते विरिष्टं सम् उ तत् त एतज्
जानीतान् नः संगमने पथीनाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं प्राणापानाभ्यां सम् उ चक्षुषा
सं श्रोत्रेण गच्छस्व सोम राजन् ।
यत् ते विरिष्टं सम् उ तत् त एतज्
जानीतान् नः संगमने पथीनाम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अहाः शरीरं पयसा
विश्वास-प्रस्तुतिः ...{Loading}...
अहाः शरीरं पयसा सम् एत्य्
अन्योअन्यो भवति वर्णो अस्य ।
तस्मै त इन्दो हविषा विधेम
वयं स्याम पतयो रयीणाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहाः शरीरं पयसा सम् एत्य्
अन्योअन्यो भवति वर्णो अस्य ।
तस्मै त इन्दो हविषा विधेम
वयं स्याम पतयो रयीणाम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अभि क्षरन्ति जुह्वो
विश्वास-प्रस्तुतिः ...{Loading}...
अभि क्षरन्ति जुह्वो घृतेन-
-अङ्गा परूंषि तव वर्धयन्तीः ।
तस्मै ते सोम नम इद् वषट् च-
-उप नो राजन् सुकृते ह्वयस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि क्षरन्ति जुह्वो घृतेन-
-अङ्गा परूंषि तव वर्धयन्तीः ।
तस्मै ते सोम नम इद् वषट् च-
-उप नो राजन् सुकृते ह्वयस्व ॥