०३७

सर्वाष् टीकाः ...{Loading}...

०१ चित्तिं यजामि मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

चित्तिं यजामि मनसा
चित्तिं देवाꣳ ऋतावृधः ।
जातवेदः प्र णस् तिर-
-अग्ने विश्वाभिर् ऊतिभिः ॥

०२ यावयास्मद् द्वेषांसि यवमयेन

विश्वास-प्रस्तुतिः ...{Loading}...

यावयास्मद् द्वेषांसि
यवमयेन हविषा ।
यस् ते त्रित दुष्वप्न्यस्य भागः
स त एष तं त एतं प्र हिण्मः ॥

०३ यथा कलां यथा

विश्वास-प्रस्तुतिः ...{Loading}...

यथा कलां यथा शफं
यथर्णं संनयन्ति ।
एवा दुष्वप्न्यं सर्वम्
अप्रिये सं नयामसि ॥

०४ अररो है शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

अररो है शतम् अद्य गवां भक्षीय
शतम् अजानां शतम् अवीनां शतम् अश्वानां शतं पुरुषाणाम् ।
तत्रापि भक्षीयामुम् आमुष्यायणम् अमुष्याः पुत्रम् ॥

०५ तम् अहं निरृतये

विश्वास-प्रस्तुतिः ...{Loading}...

तम् अहं निरृतये प्र यच्छामि
तं मृत्योः पाशे बध्नामि ।
स बद्धो हतो अस्तु
स ततो मा मोचि ॥