०३३

सर्वाष् टीकाः ...{Loading}...

०१ ऊध्ना वन हृदा

विश्वास-प्रस्तुतिः ...{Loading}...

ऊध्ना वन हृदा वन
मुखेन जिह्वया वन ।
प्रपीना पयसा वन ॥

०२ वाञ्छ पदो वाञ्छ

विश्वास-प्रस्तुतिः ...{Loading}...

वाञ्छ पदो वाञ्छ त्वचं
वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
वत्सम् अनु प्र ते मनो
निम्नं वार् इव धावतु ॥

०३ ऊर्ध्वानि ते लोमानि

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वानि ते लोमानि तिष्ठन्त्व्
अक्ष्यौ कामेन शुष्यताम् ।
सम् इद् वत्सेन गौर् इव
मुद्रा सुरेव पृच्यताम् ॥

०४ इमा गावः सबन्धवः

विश्वास-प्रस्तुतिः ...{Loading}...

इमा गावः सबन्धवः
समानं वत्सम् अक्रत ।
हिङ्ङ् इति करिक्रतीर्
आद्धारानिरमवश्वसा ॥

०५ शृङ्गौपशा गलभूषा अघ्न्याश्

विश्वास-प्रस्तुतिः ...{Loading}...

शृङ्गौपशा गलभूषा
अघ्न्याश् चर्मवासिनीः ।
गावो घृतस्य मातरस्
ता वत्सेवा नयामसि ॥