०३२

सर्वाष् टीकाः ...{Loading}...

०१ य उत्तराद् आजायते

विश्वास-प्रस्तुतिः ...{Loading}...

य उत्तराद् आजायते
मधुघो मधुघाद् अधि ।
वेदाहं तस्मिन् भेषजं
जिह्वा मधुमती मम ॥

०२ मधुमत् ते पर्णम्

विश्वास-प्रस्तुतिः ...{Loading}...

मधुमत् ते पर्णम् आस
मधुशृङ्गोत पुष्पकम् ।
मधुमान् पर्वतासिथ
यतो जायस ओषधे ॥

०३ गर्भो अस्य् ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

गर्भो अस्य् ओषधीनाम्
अपां गर्भ उतासिथ ।
अथो सोमस्य भ्रातासि
मधुघ प्राव मे वचः ॥

०४ शुनम् अहं मधुघस्य

विश्वास-प्रस्तुतिः ...{Loading}...

शुनम् अहं मधुघस्य
पितुर् नामेव जग्रभ ।
यो मा हिरण्यवर्चसं
कृणवत् पूरुषप्रियम् ॥

०५ प्रियं मा कृणु

विश्वास-प्रस्तुतिः ...{Loading}...

प्रियं मा कृणु देवेषु
प्रियं राजसु मा कृणु ।
प्रियं सर्वस्य पश्यत
उत शूद्र उतार्ये ॥