०३०

सर्वाष् टीकाः ...{Loading}...

०१ देवानां भद्रा सुमतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

देवानां भद्रा सुमतिर् ऋजूयतां
देवानां रातिर् अभि नो नि वर्तताम् ।
देवानां सख्यम् उप सेदिमा वयं
देवा न आयुः प्र तिरन्तु जीवसे ॥

०२ तान् पूर्वया निविदा

विश्वास-प्रस्तुतिः ...{Loading}...

तान् पूर्वया निविदा हूमहे वयं
भगं मित्रम् अदितिं दक्षम् अस्रिधम् ।
अर्यमणं वरुणं सोमम् अश्विना
सरस्वती नः सुभगा मयस् करत् ॥

०३ इदं पितृभ्यो नमो

विश्वास-प्रस्तुतिः ...{Loading}...

इदं पितृभ्यो नमो अस्त्व् अद्य
ये पूर्वासो ये ऽपरासः परेयुः ।
ये पार्थिवे रजस्य् आ निषत्ता
ये वा नूनं सुवृजनासु विक्षु ॥

०४ प्रत्यञ्चो अग्ने शरवः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्यञ्चो अग्ने शरवः पतन्तु
कृत्याकृते रिपवे मर्त्याय ।
क्रव्यादे अत्रिणे मा मीमृडः
क्रविष्णुम् आ धेहि निरृतेर् उपस्थे ॥

०५ ज्यायसः शंसाद् उत

विश्वास-प्रस्तुतिः ...{Loading}...

ज्यायसः शंसाद् उत वा कनीयसः
सजातशंसाद् उत जामिशंसात् ।
अनादिष्टम् अन्यकृतं यद् एनस्
त्वं नस् तस्माज् जातवेदो मुमुग्धि ॥