०२६

सर्वाष् टीकाः ...{Loading}...

०१ यत् स्वप्ने निजगन्थ

विश्वास-प्रस्तुतिः ...{Loading}...

यत् स्वप्ने निजगन्थ
यद् वा शेपिषे ऽनृतम् ।
अग्निष् ट्वा तस्माद् एनसो
ब्रह्मा मुञ्चत्व् अंहसः ॥

०२ यद् अक्षेषु दुद्रोहिथ

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अक्षेषु दुद्रोहिथ
यद् वा मित्रेभ्यस् त्वम् ।
सोमस् त्वा तस्माद् एनसो
ब्रह्मा मुञ्चत्व् अंहसः ॥

०३ यत् कुमारः कुमारेषु

विश्वास-प्रस्तुतिः ...{Loading}...

यत् कुमारः कुमारेषु
यद् वा ज्यायस्तरेषु च ।
नीविं यत् कृत्वा शेपिषे
तत् कृण्मो अगदं शिवम् ॥

०४ प्रतीचीनफलो हि त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीचीनफलो हि त्वम्
अपामार्ग बभूविथ ।
सर्वान् मच् छपथाँ अधि
वरीयो यावया त्वम् ॥

०५ अपामार्ग ओषधीनां विश्वासाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपामार्ग ओषधीनां
विश्वासाम् एक इत् पतिः ।
तेन ते मृज्म आस्थितम्
अथ त्वम् अगदश् चर ॥