०२४

सर्वाष् टीकाः ...{Loading}...

०१ यो अस्मिन् यक्ष्मः

विश्वास-प्रस्तुतिः ...{Loading}...

यो अस्मिन् यक्ष्मः पुरुषे प्रविष्ट
इषितं दैव्यं सहः ।
अग्निष् टं घृतबोधनो
अप स्कन्दयत्व् अधि दूरम् अस्मत्
सो अन्येन सम् ऋच्छतां
तम् अस्मै प्र सुवामसि ॥

०२ यस् त्वा यक्ष्मो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा यक्ष्मो देवेषित
इषितः पितृभिश् च यः ।
तस्मात् त्वा विश्वे देवा
मुञ्चन्तु पर्य् अंहसः ।
ते ते यक्ष्मम् अप स्कन्दयन्त्व् अधि (…) । +++(see 1d)+++
(…) ॥ +++(see 1ef)+++

०३ यत् त्वम् एनो

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वम् एनो अन्यकृतं
यद् आत्मकृतम् आरिथ ।
तस्मात् त्वा विश्वा भूतानि
मुञ्चन्तु पर्य् अंहसः ।
तानि ते यक्ष्मम् अप स्कन्दयन्त्व् अधि (…) +++(see 1d)+++
(…) ॥ +++(see 1ef)+++

०४ यत् त्वा स्व

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वा स्व आदृशा
यद् वा चकार निष्ट्यः ।
तस्मात् त्वा पृथिवी माता
मुञ्चतु पर्य् अंहसः ।
सा ते यक्ष्मम् अप स्कन्दयत्व् अधि (…) +++(see 1d)+++
(…) ॥ +++(see 1ef)+++

०५ अपस्कन्देन हविषा यक्ष्मम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपस्कन्देन हविषा
यक्ष्मं ते नाशयामसि ।
तद् अग्निर् आह तद् उ सोम आह
बृहस्पतिः सविता तद् इन्द्रः ।
ते ते यक्ष्मम् अप स्कन्दयन्त्व् अधि दूरम् अस्मत्
सो अन्येन सम् ऋच्छतां
तम् अस्मै प्र सुवामसि ॥