०२२

सर्वाष् टीकाः ...{Loading}...

०१ युनक्त सीरा वि

विश्वास-प्रस्तुतिः ...{Loading}...

युनक्त सीरा वि युगा तनोत
कृते क्षेत्रे वपतेह बीजम् ।
विराजः श्नुष्टिः सभरा असन् नो
नेदीय इत् सृण्यः पक्वम् आ यवम् ॥

०२ सीरा युञ्जन्ति कवयो

विश्वास-प्रस्तुतिः ...{Loading}...

सीरा युञ्जन्ति कवयो
युगा वि तन्वते पृथग्
धीरा देवेषु सुम्नयौ ।
अनड्वाहः पुरुषा ये कृषन्ति
लाङ्गलं फालं सम् अनज्मि स्फात्या ॥

०३ शुनं कीनाशो अन्व्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं कीनाशो अन्व् एतु वाहाञ्
छुनं फालो विनुदन्न् एतु भूमिम् ।
शुनासीरा हविषा यो यजातै
सुपिप्पला ओषधयः सन्तु तस्मै ॥

०४ शुनं नरो लाङ्गलेनानडुद्भिर्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं नरो लाङ्गलेनानडुद्भिर्
भगः फालैः क्षेत्रपतिर् मरुद्भिः ।
पर्जन्यो बीजम् इरयेदं हिनोतु
शुनासीरा कृणुतं धान्येह ॥

०५ इन्द्रः सीतां नि

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः सीतां नि गृह्णातु
तां पूषाभि रक्षतु ।
सा नः पयस्वती दुहाम्
उत्तरामुत्तरां समाम् ॥

०६ उद् अस्थाद् रथजिद्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् अस्थाद् रथजिद् गोजिद् अश्वजिद् धिरण्यजित्
सूनृतया परीवृतः ।
एकचक्रेण सविता रथेन-
-ऊर्जो भागैः पृथिवीम् एत्य् आपृणन् ॥