सर्वाष् टीकाः ...{Loading}...
०१ आ नो अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो अग्ने सुमतिं सम्भलो गेद्
इमां कुमारीं सह नो भगेन ।
जुष्टा वरेषु समनेषु वल्गुर्
ओषं पत्या भवतु संभगेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ नो अग्ने सुमतिं सम्भलो गेद्
इमां कुमारीं सह नो भगेन ।
जुष्टा वरेषु समनेषु वल्गुर्
ओषं पत्या भवतु संभगेयम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इयम् अग्ने नारी
विश्वास-प्रस्तुतिः ...{Loading}...
इयम् अग्ने नारी पतिं विदेष्ट
सोमो हि राजा सुभगां कृणोतु ।
सुवाना पुत्रान् महिषी भवाति
गत्वा पतिं सुभगा वि राजात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयम् अग्ने नारी पतिं विदेष्ट
सोमो हि राजा सुभगां कृणोतु ।
सुवाना पुत्रान् महिषी भवाति
गत्वा पतिं सुभगा वि राजात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ सोमजुष्टो ब्रह्मजुष्टो अर्यम्णा
विश्वास-प्रस्तुतिः ...{Loading}...
सोमजुष्टो ब्रह्मजुष्टो
अर्यम्णा संभृतो भगः ।
धातुर् देवस्य सत्येन
कृणोमि पतिवेदनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमजुष्टो ब्रह्मजुष्टो
अर्यम्णा संभृतो भगः ।
धातुर् देवस्य सत्येन
कृणोमि पतिवेदनम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथाखरो मघवंश् चारुर्
विश्वास-प्रस्तुतिः ...{Loading}...
यथाखरो मघवंश् चारुर् एष
प्रियो मृगाणां सुषदा बभूव ।
एवेयं जुष्टा भगस्यास्तु
संप्रिया पत्याविराधयन्ती ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाखरो मघवंश् चारुर् एष
प्रियो मृगाणां सुषदा बभूव ।
एवेयं जुष्टा भगस्यास्तु
संप्रिया पत्याविराधयन्ती ॥
सर्वाष् टीकाः ...{Loading}...
०५ भगस्य नावम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
भगस्य नावम् आ रोह
पूर्णाम् अनुपदस्वतीम् ।
तयोप प्र याहि तं
यः पतिः प्रतिकाम्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगस्य नावम् आ रोह
पूर्णाम् अनुपदस्वतीम् ।
तयोप प्र याहि तं
यः पतिः प्रतिकाम्यः ॥
सर्वाष् टीकाः ...{Loading}...
०६ इदं हिरण्यं गुल्गुल्व्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं हिरण्यं गुल्गुल्व्
अयम् औक्षो अथो भगः ।
एते पतिभ्यस् त्वाम् अदुः
प्रतिकामाय वेत्तवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं हिरण्यं गुल्गुल्व्
अयम् औक्षो अथो भगः ।
एते पतिभ्यस् त्वाम् अदुः
प्रतिकामाय वेत्तवे ॥